त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि । चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे ।। 37
तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च। गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे ।। 38
त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः। नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः ।। 39
तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते। यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् ।। 40
सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् । त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि ।। 41
कृतकृत्या अविष्यन्ति गन्धर्वास्ते न संशयः । ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् ।। 42
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः । राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे। साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः ।। 43
अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय। भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति ।। 44
तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता। उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता ।। 45
वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता। त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः ।। 46
इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् । त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ।। 47
कीचके तु हते राजा विराटः परवीरहा। शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ।। 1
कीचकस्य वधं घोरं सानुजस्य विशांपते । अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ।। 2
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः । वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ।। 3
सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे। आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः । स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ।। 4
इत्यजल्पन्महाराज कीचकस्य विनाशनम् । देशेदेशे मनुष्याश्च विस्मितः कीचके हते ।। 5
अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः । मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ।। 6
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः । कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः ।। 7
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम्। तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ।। 8
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना। संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ।। 9
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा। आसीनं सूर्यसंकाशे काञ्चने परमासने ।। 10
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् । विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ।। 11
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः। दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ।। 12
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा । पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ।। 13
निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले । लताप्रतानगहने नानागुल्मसमावृते ।। 14
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः । मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ।। 15
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च। जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ।। 16
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान्। अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ।। 17
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु। नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च।। 18
गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च। दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च ।। गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ।। 19