तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि। गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ।। 7
निष्कासयैनां भवनात्पुराच्चैव विशेषतः। कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ।। 8
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः। अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ।। 9
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ।। 10
इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम्। सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ।। 11
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह । गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना । बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ।। 12
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् । स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ।। 13
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ।। 14
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च। मोक्षिता भीमसेनेन जगाम नगरं प्रति ।। 15
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी। सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ।। 16
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश। गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ।। 17
प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः। मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ।। 18
तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः। इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ।। 19
ततो महानसद्वारे भीमसेनमवस्थितम्। ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ।। 20
सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत्। नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ।। 21
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे। यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ।। 22
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः। तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ।। 23
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः। तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ।। 24
तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः। ततः पाञ्चालराजस्य सुता चापि जगाम ह ।। 25
ततः सा नर्तनागारे धनंजयमपश्यत। राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ।। 26
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः। कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ।। 27
दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता। दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ।। 28
कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः। इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् ।। 29
बृहन्नले किंनु तव सैरन्ध्र्या कार्यमद्य वै। या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखं ।। 30
न हि दुःख समाप्नोषि सैरन्ध्री यदुपाश्रुते। सुखेन वर्तसे येह न तद्दुःखमवाप्यते। तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि ।। 31
बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम्। तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे ।। 32
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता। त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने । क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत्। ।। 33
न तु केनचिदन्यन्तं कस्यचिद्धृदयं क्वचित्। वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ।। 34
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्। प्रविवेश सुदेष्णायाः समीपमनसूयिनी ।। 35
तामब्रवीद्राजपत्नी विराटवचनादिदम् । सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् । राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् ।। 36