स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ।। 62 ।। न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ।। 63 ।। विराटनगरे चापि सर्वे मात्स्याः समागताः
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ।। 64 ।। तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः
विस्मयं परमं गत्वा नोचुः किंचन भारत ।। 65
ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत। पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् । गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ।। 1
यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः। विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ।। 2
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् । सर्वं संशयितं राजन्नगरं ते भविष्यति ।। 3
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः । पुंसामिष्टश्च विषयो मैथुनाय न संशयः ।। 4
यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव। विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ।। 5
सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् । पश्यतामनिमेषेण चक्षुषा वनितां शुभाम्। मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ।। 6
तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि। गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ।। 7
निष्कासयैनां भवनात्पुराच्चैव विशेषतः। कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ।। 8
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः। अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ।। 9
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ।। 10
इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम्। सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ।। 11
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह । गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना । बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ।। 12
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् । स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ।। 13
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ।। 14
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च। मोक्षिता भीमसेनेन जगाम नगरं प्रति ।। 15
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी। सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ।। 16
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश। गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ।। 17
प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः। मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ।। 18
तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः। इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ।। 19
ततो महानसद्वारे भीमसेनमवस्थितम्। ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ।। 20
सोपहासं तु शनकैः संज्ञाभिरिदमब्रवीत्। नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ।। 21
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे। यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ।। 22
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः। तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ।। 23
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः। तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ।। 24
तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः। ततः पाञ्चालराजस्य सुता चापि जगाम ह ।। 25
ततः सा नर्तनागारे धनंजयमपश्यत। राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ।। 26