एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत्। अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ।। 52
ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ।। 53
जया नाम सखी साऽभूत्पार्वत्या नखमांसवत्। तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ।। ] ।। 54
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः। गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ।। 55
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम्। अन्येनाहं गमिष्यामि विराटस्य महानसम् । यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ।। 56
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ।। 57 ।। कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ।। 58 ।। भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः
सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ।। 59 ।। निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ।। 60 ।। पञ्चाधिकं शतं तत्र निहतं तेन भारत
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ।। 61 ।। एवं ते निहता राजञ्शतं पञ्चोपकीचकाः
स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ।। 62 ।। न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ।। 63 ।। विराटनगरे चापि सर्वे मात्स्याः समागताः
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ।। 64 ।। तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः
विस्मयं परमं गत्वा नोचुः किंचन भारत ।। 65
ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत। पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् । गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ।। 1
यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः। विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ।। 2
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् । सर्वं संशयितं राजन्नगरं ते भविष्यति ।। 3
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः । पुंसामिष्टश्च विषयो मैथुनाय न संशयः ।। 4
यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव। विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ।। 5
सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् । पश्यतामनिमेषेण चक्षुषा वनितां शुभाम्। मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ।। 6
तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि। गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ।। 7
निष्कासयैनां भवनात्पुराच्चैव विशेषतः। कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ।। 8
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः। अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ।। 9
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ।। 10
इत्युक्त्वा परमोद्वग्निः प्रविश्यान्तःपुरं शुभम्। सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ।। 11
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह । गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना । बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ।। 12
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् । स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ।। 13
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ।। 14
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च। मोक्षिता भीमसेनेन जगाम नगरं प्रति ।। 15
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी। सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ।। 16