ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ।। 32
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः। प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः।। 33
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः। भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ।। 34
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम्। वित्रेसुश्च तदा सूता विपादभयपीडिताः ।। 35
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः। दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः। परस्परमथोचुस्ते विषादभयमोहिताः ।। 36
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्। प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः। सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ।। 37
ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् । विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ।। 38
द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव । अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ।। 39
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ।। 40
दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव। एकेनैव प्रहारेण दश सप्त च विंशतिम्। अष्टादश च पञ्चाशञ्जघान स वृकोदरः ।। 41
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम्। वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली। वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ।। 42
तान्निहत्य महाबाहुर्भीमसेनो महाबलः। आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ।। 43
उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः । अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ।। 44
[ मा खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता। पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः।। 45
पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः। कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ।। 46
कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः। तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ।। 47
साम्ना दानेन भेदेन सा यदा नान्वमन्यत। तदा तां पातयित्वा स मैथुनायोपचक्रमे ।। 48
ततः सा धैर्यमास्थाय विवरं त ददौ तदा। ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ।। 49
साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता। प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ।। 50
आराधितो यदि मया भर्ता मे दैवतं महत्। कर्मणा मनसा वाचा गुरवस्तोषिता मया। तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ।। 51
एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत्। अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ।। 52
ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ।। 53
जया नाम सखी साऽभूत्पार्वत्या नखमांसवत्। तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ।। ] ।। 54
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः। गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ।। 55
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम्। अन्येनाहं गमिष्यामि विराटस्य महानसम् । यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ।। 56
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ।। 57 ।। कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ।। 58 ।। भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः
सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ।। 59 ।। निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ।। 60 ।। पञ्चाधिकं शतं तत्र निहतं तेन भारत
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ।। 61 ।। एवं ते निहता राजञ्शतं पञ्चोपकीचकाः