पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत । सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ।। 12
ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः। रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ।। 13
आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च। ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ।। 14
यस्याः कृते।़यं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु । अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ।। 15
सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च। अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा । विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ।। 16
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता। प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ।। 17
मृतेन सह बद्धाङ्गी निराशा जीविते तदा। श्मशानाभिमुखं नीता करेणुरिव रौति सा ।। 18
जयो जयेशो विजयो जयत्सेनो जयद्बलः। त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ।। 19
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान्। ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ।। 20
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः। अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ।। 21
रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् । ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ।। 22
येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः। राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ।। 23
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः। श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ।। 24
अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः। तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ।। 25
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ।। 26
ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च। अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ।। 27
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् । श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ।। 28
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् । जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ।। 29
चितासमीपं गत्वा स तत्रापश्यन्महाबलः । तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ।। 30
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च। वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ।। 31
ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ।। 32
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः। प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः।। 33
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः। भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ।। 34
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम्। वित्रेसुश्च तदा सूता विपादभयपीडिताः ।। 35
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः। दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः। परस्परमथोचुस्ते विषादभयमोहिताः ।। 36
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्। प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः। सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ।। 37
ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् । विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ।। 38
द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव । अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ।। 39
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ।। 40
दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव। एकेनैव प्रहारेण दश सप्त च विंशतिम्। अष्टादश च पञ्चाशञ्जघान स वृकोदरः ।। 41