यः श्रोत्रयोरमृतं सन्निषिञ्चे- द्विद्यामविद्यस्य यथा त्वमार्यः। तं मन्येऽहं पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन्
ऋतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः। ये नाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः
सुरापानाद्वञ्चनां प्राप्य विद्वा- न्संज्ञानाशं चैव महातिघोरम्। दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन
समन्युरुत्थाय महानुभाव- स्तदोशना विप्रहितं चिकीर्षुः। सुरापानं प्रति संजातमन्युः काव्यः स्वयं वाक्यमिदं जगाद
यो ब्राह्मणोऽद्यप्रभृतीह कश्चि- न्मोहात्सुरां पास्यति मन्दबुद्धिः। अपेतधर्मा ब्र्हमहा चैव स स्या- दस्मिंल्लोके गर्हितः स्यात्परे च
मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके। सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे
इतीदमुक्त्वा स महानुभाव- स्तपोनिधीनां निधिरप्रमेयः। तान्दानवान्दैवविमूढबुद्धी- निदं समाहूय वचोऽभ्युवाच
आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे। सञ्जीविनीं प्राप्य विद्यां महात्मा तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः
योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः। न तत्किर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति
एतावदुक्त्वा वचनं विरराम स भार्गवः। दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम्
गुरोरुष्य सकाशे तु दश वर्षशतानि सः। अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्
समावृतव्रतं तं तु विसृष्टं गुरुणा कचम्। प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च। भ्राजसे विद्यया चैव तपसा च दमेन च
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः। तथा प्रान्यश्च पूज्यश्च मम भूयो बृहस्पतिः
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन। व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि
स समावृतविद्यो मां भक्तां भजितुमर्हसि। गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम्।। कच उवाच
पूज्यो मान्यश्च भगवान्यथा तव पिता मम। तथा त्वमनवद्याङ्गि पूजनीयतरा मम
प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः। त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव। देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि
गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः। तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम
असुरैर्हन्यमाने च कच त्वयि पुनःपुनः। तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्। न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्
अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि। प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने। तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि
भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे। सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि। अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे। अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः। ततः कच न ते विद्या सिद्धिमेषा गमिष्यति
गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः। गुरुणा चाननुज्ञातः काममेवं शपस्व माम्
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया। शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः
तस्माद्भवत्या यः कामो न तथा स भविष्यति। ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति