क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः । जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ।। 36
गृहीत्वा कीचकं भीमो विरराज महाबलः । आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ।। 37
पुनश्चातिबलस्तत्र कीचको बलदर्पितः । व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ।। 38
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम्। कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ।। 39
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् । काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ।। 40
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ।। 41
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली। कष्णायै दर्शयामास भीमसेनो महाबलः ।। 42
उवाच च महातेजा द्रौपदीं योषितां वराम्। त्वयि कामुकमत्यन्तं पापिनं पारदारिकम्। पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ।। 43
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् । एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा। यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ।। 44
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा। विज्ञापनार्थमन्येषां विरराम महाहवम् ।। 45
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम्। आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ।। 46
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम्। सुखोपविष्टः शयने भीमो भीमपराक्रमः ।। 47
ततः कृष्णा यदा मेने गतं भीमं महानसम् । कीचकं घातयित्वा च द्रौपदी योषितां वरा। प्रहृष्टा गतसंत्रासा सभापालानुवाच ह ।। 48
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम। परस्त्रीकामसंतप्तं समागच्छन्त पश्यत ।। 49
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः । सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ।। 50
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः। ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम्। गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ।। 51
पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ।। 52
क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् । इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ।। 53
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् । निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ।। 54
तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः । रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ।। 1
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम्। तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ।। 2
पोथितं भीमसेनेन महेन्द्रेणेव दानवम्। कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ।। 3
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम्। संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ।। 4
अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः। अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ।। 5
समागतेषु सूतेषु तानुवाचोपकीचकः। हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ।। 6
हन्यतां शीघ्रमसती यत्कृते कीचको हतः। अथवा नैव हन्तव्या दह्यतां कामिना सह ।। 7
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा । इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ।। 8
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति। सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् । हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ।। 9
ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन्। कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ।। 10
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया । मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ।। 11