स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् । मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ।। 6
कीचकस्तु शिरःस्नातो निशायां समलंकृतः। सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ।। 7
तदेव नर्तनागारं पाञ्चाली यदभाषत। तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ।। 8
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम्। पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ।। 9
शयानं शयने तत्र मृत्युं मूढः परामृशत्। जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ।। 10
एकान्ते भीममासाद्य कीचकः कालचोदितः। हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ।। 11
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते। त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ।। 12
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः। बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ।। 13
अहं रूपेण संपन्नः स्नातो गुरुविभूषितः। नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः । रूपस्य तन्मया प्राप्तं फलं कमललोचने ।। 14
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि।। 15
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता। अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज। द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ।। 16
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि । ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ।। 17
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः। स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ।। 18
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः। सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ।। 19
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि । द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ।। 20
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति। सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ।। 21
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ।। 22
गृहीत्वा कीचकं भीमो विरराज महाबलः। गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ।। 23
स केशेषु परामृष्टो बलेन बलिनां वरः। आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ।। 24
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः। वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ।। 25
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च। वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ।। 26
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ। समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ।। 27
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ। वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ।।28
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् । कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ।। 29
पातितो भीमसेनस्तु कीचकेन बलीयसा। उत्पपाताथ वेगेन दण्डाहत इवोरगः ।। 30
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ। निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ।। 31
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम्। तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ।। 32
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली। कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ।। 33
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः। कीचको भीमसेनेन पश्चात्पश्चादहीयत ।। 34
तं हीयमानं विज्ञाय भीमसेनो महाबलः । वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ।। 35