अस्रं दुःखाभिभूताया मम मार्जस्व भारत। बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम्। आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ।। 39
स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्। नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ।। 40
सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे। हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ।। 41
सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते। कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ।। 42
प्रसह्य निहनिष्यामि केशवः केशिनं यथा। रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ।। 43
अहं भद्रे हनिष्यामि कीचकं मदनान्वितम्। यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ।। 44
अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम्। निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ।। 45
मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति। दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम्। कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ।। 46
नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम्। कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः । काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ।। 47
त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम्। निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ।। 48
कीचकस्य वधं भीम यदि जानन्ति नागराः। त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ।। 49
कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो। निशि गूढं तथा भीम कीचकं तं निपातय ।। 50
अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः। पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ।। 51
कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत। भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ।। 52
यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम्। तथा कुरुष्व कौरव्य बलवन्नरिमर्दन । अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ।। 53
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ।। 1
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः। अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ।। 2
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति। कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ।। 3
एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः। अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ।। 4
अवदातेन मृदुना पटेनाच्छादितस्तथा । द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ।। 5
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् । मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ।। 6
कीचकस्तु शिरःस्नातो निशायां समलंकृतः। सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ।। 7
तदेव नर्तनागारं पाञ्चाली यदभाषत। तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ।। 8
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम्। पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ।। 9
शयानं शयने तत्र मृत्युं मूढः परामृशत्। जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ।। 10
एकान्ते भीममासाद्य कीचकः कालचोदितः। हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ।। 11
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते। त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ।। 12
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः। बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ।। 13
अहं रूपेण संपन्नः स्नातो गुरुविभूषितः। नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः । रूपस्य तन्मया प्राप्तं फलं कमललोचने ।। 14
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि।। 15