कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः। सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ।। 29
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः। अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ।। 30
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्। अनुचिन्तयतश्चापि तामेवायतलोचनाम् ।। 31
आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः । निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ।। 32
कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः। नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ।। 33
ततस्तु द्रौपदी गत्वा भीमसेनं महानसे। उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ।। 34
तमुवाच सुकेशान्ता कीचकस्य कृतो मया। सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ।। 35
कालेन नियतं बद्धः कामेन च बलात्कृतः। शून्यं स नर्तनागारमागमिष्यति कीचकः। एको निशि महाबाहो कीचकं तं निषूदय ।। 36
तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम्। गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ।। 37
गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते। स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ।। 38
अस्रं दुःखाभिभूताया मम मार्जस्व भारत। बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम्। आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ।। 39
स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्। नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ।। 40
सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे। हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ।। 41
सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते। कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ।। 42
प्रसह्य निहनिष्यामि केशवः केशिनं यथा। रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ।। 43
अहं भद्रे हनिष्यामि कीचकं मदनान्वितम्। यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ।। 44
अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम्। निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ।। 45
मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति। दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम्। कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ।। 46
नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम्। कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः । काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ।। 47
त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम्। निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ।। 48
कीचकस्य वधं भीम यदि जानन्ति नागराः। त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ।। 49
कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो। निशि गूढं तथा भीम कीचकं तं निपातय ।। 50
अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः। पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ।। 51
कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत। भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ।। 52
यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम्। तथा कुरुष्व कौरव्य बलवन्नरिमर्दन । अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ।। 53
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ।। 1
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः। अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ।। 2
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति। कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ।। 3
एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः। अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ।। 4
अवदातेन मृदुना पटेनाच्छादितस्तथा । द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ।। 5