आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम्। हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ।। 54
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम्। उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ।। 55
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ।। 1
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् । दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ।। 2
यैषा नर्तनशालेह मत्स्यराजेन कारिता। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ।। 3
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्। तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् । त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ।। 4
संकेतं सूतपुत्रस्य कारयस्व शुभानने। यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ।। 5
तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत्। तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ।। 6
आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति । कीचकस्य विनाशाय तथा कुरु नृपात्मजे ।। 7
तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ। रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ।। 8
भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा। द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ।। 9
तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः। गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ।। 10
यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् । न कंचिल्लभसे नाथमभिपन्ना बलीयसा ।। 11
प्रवादेन तु मात्स्यानामयं राजेति चोच्यते। अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ।। 12
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते। न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ।। 13
अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते। दासीशतं च ते दद्यां दासानामपि चापरम् ।। 14
रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः । सुदासानां सहस्रं च महिषाणां सहस्रकम् ।। 15
अन्तःपुरसहस्रं च हेमकूटसहस्रकम्। तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ।। 16
एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक। न ते सखा वा भ्राता वा जानीयात्संगमं मया ।। 17
अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् । अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत। एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ।। 18
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे। एकोऽहमागमिष्यामि शून्यमावसथं तव ।। 19
समागमार्थं रम्भोरु त्वया मदनदर्पितः। यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ।। 20
यदेतन्नर्तनागारं मात्स्यराजेन कारितम्। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ।। 21
निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते। तत्र दोषः परिहृतो भविष्यति न संशयः ।। 22
एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज । तत्राहं भविता तुभ्यं वशगा नात्र संशयः ।। 23
तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि। एकः सन्नर्तनागारमागमिष्यामि भामिनि। समागमार्थं सुश्रोणि शपे च सुकृतेन मे ।। 24
यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि। सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम्। अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ।। 25
वासांसि च विचित्राणि मनोज्ञानि तवापि च। यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ।। 26
तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम्। यन्नानुभूतं भवता जन्मप्रभृति कीचक ।। 27
तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह। क्षणमात्रं तदभवन्मासेनैव समं नृप ।। 28