मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते। पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ।। 24
सत्येन ते शपे चाहं भविता नान्यथेति च ।। 25
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि। सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ।। 26
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् । यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ।। 27
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ।। 28
आर्तप्रलापा कौन्तेय न राजानमुपालभे। अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ।। 29
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ।। 30
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः। स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ।। 31
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः । नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने । अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ।। 32
किमुक्तेन व्यतीतेन भीमसेन महाबल। प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ।। 33
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता। नित्यमुद्विजते राजा कथं नेयादिमामिति ।। 34
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः । कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ।। 35
तमहं कुपिता भीम पुनः कोपं नियम्य च। अब्रवं कामसंमूढमात्मानं रक्ष कीचक ।। 36
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया । ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ।। 37
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह। नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ।। 38
शतं सहस्रमपि वा गन्धर्वाणामहं रणे। समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ।। 39
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः। न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ।। 40
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता। नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ।। 41
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः। न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ।। 42
पापात्मा पापकारी च कामराजवशानुगः । अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ।। 43
दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम्। धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ।। 44
समयं रक्षमाणानां दारा वो न भवन्ति च । भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता। प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ।। 45
वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् । क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ।। 46
पश्यतो धर्मराजस्य कीचको माऽन्वधावत । तवेव च समक्षं वै भीमसेन महाबल ।। 47
त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् ।। 48
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह। जहीममपि पापिष्ठं योयं मामवमन्यते । कीचको राजवाल्लभ्याच्छोककृन्मम भारत ।। 49
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि । यो निमित्तमनर्थानां बहूनां मम भारत ।। 50
तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति । विषमालोड्य पास्यामि मा कीचकवशंगमम् ।। 51
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः । इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ।। 52
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च। कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ।। 53