इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः । शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ।। 14
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे। लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ।। 15
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ।। 16
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता। पतिमन्वचरत्सीता महारण्यनिवासिनम् ।। 17
वसन्ती च महारण्ये रामस्य महिषी प्रिया। रावणेन हृता सीता राक्षसीभिश्च तर्जिता। सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ।। 18
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम्। भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ।। 19
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने। वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ।। 20
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि। पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ।। 21
नलं राजानमेवाथ दमयन्ती वनान्तरे। अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ।। 22
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः। तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ।। 23
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते। पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ।। 24
सत्येन ते शपे चाहं भविता नान्यथेति च ।। 25
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि। सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ।। 26
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् । यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ।। 27
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ।। 28
आर्तप्रलापा कौन्तेय न राजानमुपालभे। अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ।। 29
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ।। 30
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः। स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ।। 31
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः । नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने । अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ।। 32
किमुक्तेन व्यतीतेन भीमसेन महाबल। प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ।। 33
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता। नित्यमुद्विजते राजा कथं नेयादिमामिति ।। 34
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः । कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ।। 35
तमहं कुपिता भीम पुनः कोपं नियम्य च। अब्रवं कामसंमूढमात्मानं रक्ष कीचक ।। 36
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया । ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ।। 37
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह। नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ।। 38
शतं सहस्रमपि वा गन्धर्वाणामहं रणे। समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ।। 39
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः। न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ।। 40
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता। नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ।। 41
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः। न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ।। 42
पापात्मा पापकारी च कामराजवशानुगः । अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ।। 43