शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि । धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च। यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ।। 4
तदद्य मां तु तपति यत्कृतं न मया पुरा। सभायां स्म विराटस्य करोमि कदनं महत् ।। 5
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते। तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ।। 6
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः। सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ।। 7
दुःशासनस्य पापस्य यन्मया न हृतं शिरः । तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ।। 8
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम। पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः । तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ।। 9
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम्। धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ। कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ।। 10
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा। हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः । सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ।। 11
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता। रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ।। 12
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि। मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ।। 13
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः । शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ।। 14
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे। लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ।। 15
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ।। 16
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता। पतिमन्वचरत्सीता महारण्यनिवासिनम् ।। 17
वसन्ती च महारण्ये रामस्य महिषी प्रिया। रावणेन हृता सीता राक्षसीभिश्च तर्जिता। सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ।। 18
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम्। भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ।। 19
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने। वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ।। 20
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि। पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ।। 21
नलं राजानमेवाथ दमयन्ती वनान्तरे। अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ।। 22
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः। तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ।। 23
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते। पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ।। 24
सत्येन ते शपे चाहं भविता नान्यथेति च ।। 25
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि। सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ।। 26
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् । यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ।। 27
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ।। 28
आर्तप्रलापा कौन्तेय न राजानमुपालभे। अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ।। 29
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ।। 30
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः। स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ।। 31
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः । नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने । अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ।। 32
किमुक्तेन व्यतीतेन भीमसेन महाबल। प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ।। 33