तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः। भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ।। 17
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः । विनिपातमिमं पश्य युष्माकमविचिन्तितम् ।। 18
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा। सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ।। 19
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा । युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ।। 20
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी। आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ।। 21
यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः। साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ।। 22
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्। या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः । अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ।। 23
पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा। इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ।। 24
बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन। साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ।। 25
किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा। नान्यपिष्टं विराटस्य चन्दनं किल रोचते ।। 26
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी। रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ।। 27
सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः । हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ।। 28
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा। अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ।। 29
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम्। विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम्। अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ।। 30
पापे निपतितायाश्च किं फलं जीवितेन मे। इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ।। 31
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः। मुखमानीय वेपन्त्या रुरोद परवीरहा ।। 32
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् । ततः परमदुःखार्त इदं वचनमब्रवीत् ।। 32
आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह। शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ।। 1
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् । कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ।। 2
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्। तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं ।। 3
शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि । धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च। यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ।। 4
तदद्य मां तु तपति यत्कृतं न मया पुरा। सभायां स्म विराटस्य करोमि कदनं महत् ।। 5
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते। तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ।। 6
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः। सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ।। 7
दुःशासनस्य पापस्य यन्मया न हृतं शिरः । तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ।। 8
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम। पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः । तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ।। 9
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम्। धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ। कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ।। 10
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा। हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः । सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ।। 11
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता। रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ।। 12
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि। मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ।। 13