किंनु मां मन्यसे पार्थ सुखितेति परन्तप। तथा दृष्ट्वा यवीयांसं सहदेवं युधांपतिम् ।। 112
तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम्। दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव ।। 113
सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः । न पश्यामि महाभाग सहदेवस्य दुःष्कृतम्। यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः ।। 114
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्। गोषु गोवृषसंकाशं मात्स्येनापि निवेशितम् ।। 115
संरब्धतररक्ताक्षं गोपालानां पुरोगमम्। विराटमभिनन्दन्तं वित्ते मे भवति ज्वरः ।। 116
सहदेवं हि मे नित्यं वीरमार्या प्रशंसति। महाभिजनसंपन्नो नीतिमान्कुलवानपि ।। 117
हीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे। स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि ।। 118
सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः। ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ।। 119
इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी। प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ।। 120
तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम्। सहदेवं युधांश्रेष्ठं किंनु जीवामि पाण्डवः ।। 121
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ।। 122
पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत। वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै ।। 123
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत। शोषयन्ति शरीरं मे किंनु दुःखतरं ततः ।। 124
एकभर्ता तु या नारी सा सुखेनैव वर्तते। पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् ।। 125
अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि। वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ।। 1
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप। आसे कालमुपासीना सर्वदुःखसहा पुनः ।। 2
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च। इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ।। 3
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च । इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ।। 4
य एव हेतुर्भवति पुरुषस्य जयावहः। पराजये च हेतुः स इति च प्रतिपालये ।। 5
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते। पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ।। 6
न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम्। इति चाप्यागमं भूयो दैवस्य प्रतिपालये ।। 7
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति । इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ।। 8
दैवेन किल यस्यार्थः सुनीतोपि विपद्यते। सदा दैवागमे यत्नस्तेन कार्यो विजानता ।। 9
किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् । पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ।। 10
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च । इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ।। 11
कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत। पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ।। 12
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता। एवं समुदिता नारी कान्वेयं दुःखभागिनी ।। 13
नूनं बालतया धातुर्मया वै विप्रियं कृतम्। तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ।। 14
वर्णं विकारमपि मे पश्य पाण्डव यादृशम् । ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ।। 15
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा। साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे।। 16