कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः। स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ।। 82
सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी। अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ।। 83
इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् । क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि ।। 84
तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः। नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः ।। 85
ज्ञात्वा-तु रुषितं भीमं द्रौपदी पुनरब्रवीत्। शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ।। 86
यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत्। सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा। आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ।। 87
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्। सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ।। 88
यस्माद्भयममित्राणां सदैव पुरुषर्षभात्। स लोकपरिभूतेन वेषेणास्ते धनंजयः ।। 89
यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः। षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् । कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ।। 90
स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ।। 91
किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत। वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ।। 92
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि । आधारः सर्वविद्यानां यो धारयति कुण्डले ।। 93
यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि । समरे नातिवर्तन्ते वेलामिव महोर्मयः ।। 94
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा। आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ।। 95
यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी। सपर्वतवनाकाशा सहस्थावरजङ्गमा ।। 96
यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत। न स शोचति मामद्य भीमसेन तवानुजः ।। 97
विभूषितमलंकारैः कुण्डलैः परिपातुकैः। कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः ।। 98
वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम्। कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः ।। 99
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम्। प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः ।। 100
मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम्। पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः ।। 101
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम्। अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् ।। 102
ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः । अग्नीन्संतर्पयन्पार्थः सर्वशत्रुनिबर्हणः। दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् ।। 103
कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत। दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् ।। 104
दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम्। ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् ।। 105
पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान्। निवातकवचैः सार्धं घोरानेकरथोऽजयत्। सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ।। 106
यो वै महातपः कुर्वन्महाबलपराक्रमः । युद्धेन तोषयामास शंकरं शूलपाणिनम् ।। 107
कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम्। स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः ।। 108
यः स्त्रीभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया । सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ।। 109
राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः। सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः । प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च ।। 120
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम्। अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् । विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः ।। 111