एनं सुस्वरसंपन्ना बहवः सूतमागधाः। सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ।। 62
[सहस्रं वालखिल्यानां सहस्रमुदवासिनाम्। सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् ।। 63
सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम्। सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् ।। 64
हंसाः परमहंसाश्च योगिनश्च द्विजातयः। कुटीरकाः परिव्राजो ये चान्ये वनचारिणः ।। 65
संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः । चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः । क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये ।। 66 ।।]
सहस्रमृषयो यस्य नित्यमासन्सभासदः। तपःश्रुतोपसंपन्नाः सर्वकामैरुपास्थिताः ।। 67
अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान्। बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः ।। 68
स एष निलयं प्राप्तो मत्स्यस्य परिचारकः। सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः ।। 69
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः। आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति ।। 70
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः। स वशे विवशो राज्ञां परेषामद्य वर्तते ।। 71
संप्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा। सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ।। 72
यमुपासत राजानं सभायामृषिसत्तमाः। तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ।। 73
अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् । दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् ।। 74
उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा। तमुपासीनमद्यान्यं पश्य भारत भारतम् ।। 75
एवं बहुविदैर्दुःखैः पीड्यमानामनाथवत्। शोकसागरमध्यस्थां किं मां भीम न पश्यसि ।। 76
इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत। न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ।। 77
शार्दूलैर्महिषैर्नागौरगारे योत्स्यसे सदा। कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् ।। 78
हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च ।। 79
तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत। प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव ।। 80
स्नेहात्संवासजादेव तदा वै चारुहासिनी । युध्यमानं महावीर्यमिमं समनुशोचति ।। 81
कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः। स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ।। 82
सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी। अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ।। 83
इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् । क्रुध्यन्तीं मां च संप्रेक्ष्य पर्यशङ्कत मां त्वयि ।। 84
तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः। नोवाच किंचिद्वचनं संरम्भाद्रक्तलोचनः ।। 85
ज्ञात्वा-तु रुषितं भीमं द्रौपदी पुनरब्रवीत्। शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ।। 86
यंस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत्। सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा। आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ।। 87
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्। सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ।। 88
यस्माद्भयममित्राणां सदैव पुरुषर्षभात्। स लोकपरिभूतेन वेषेणास्ते धनंजयः ।। 89
यस्यं ज्यातलनिर्घोषात्समकम्पन्त शत्रवः। षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् । कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ।। 90
स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ।। 91