वनवासगता चाहं सैन्धवेन दुरात्मना। परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ।। 32
पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् । दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ।। 33
ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना। इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका। परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ।। 34
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्। नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ।। 35
साऽहं बहूनिः दुःखानि गणयामि न ते कृते ।। 36
मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः। कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ।। 37
एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव । न मां जानासि कौन्तेय किं फलं जीवितेन मे ।। 38
द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा। अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ।। 39
कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये। विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ।। 40
आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते । शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ।। 41
योऽयं राज्ञो विराटस्य कीचको नाम भारत। सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ।। 42
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि। नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ।। 43
तेनैवमुच्यमानाया वधार्हेणारिसूदन। कालेनेव फलं पक्वं हृदयं मे विदीर्यते ।। 44
शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम्। निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ।। 45
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ।। 46
विजानामि तवामर्षं बलं वीर्यं च पाण्डव। ततोऽहं परिदेवामि चाग्रतस्ते महाबल ।। 47
यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः। भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् ।। 48
तथैव च शिरस्तस्य निपात्य धरणीतले। वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव ।। 49
स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति। कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ।। 50
शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च। युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च। कीचकस्य वधं नाद्य प्रतिजानासि भारत ।। 51
भ्रात च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम्। यस्मास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ।। 52
येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः। भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः ।। 53
को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् । प्रव्रजेत महारण्यमजिनैः परिवारितः ।। 54
यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् । सायं प्रातरदेविष्यदपि संवत्सरायुतम् ।। 55
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् । अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत्।। 56
सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः। तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ।। 57
पुरा दशसहस्राणि दन्तिनां वाजिनामपि। यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति ।। 58
तथा शतसहस्राणि स्त्रीणाममिततेजसाम्। उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् ।। 59
शतं दासीसहस्राणां यस्य नित्यं महानसे। पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ।। 60
एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने । द्यूतजेन ह्यनर्थेन महता समुपावृतः ।। 61