शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्। गच्छ वै शयनायैव यावदन्यो न बुध्यते ।। 22
सा लञ्जमाना भीता च अधोमुखमुखी ततः। नोवाच किंचिद्वचनं बाष्पदूषितलोचना ।। 23
अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः। प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ।। 24
अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः। जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ।। 25
यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत्। सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ।। 26
विकृष्टा हास्तिनपुरे सभायां राजसंसदि। दुःशासनेन केशान्ते परामृष्टा रजस्वला ।। 27
क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च। श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता। द्रोणेन च महाबाहो कृपेण च परंतप ।। 28
साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव। केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ।। 29
विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता। साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता । जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ।। 30
पार्थिवस्य सुता नाम कानु जीवेन मादृशी । अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो।। 31
वनवासगता चाहं सैन्धवेन दुरात्मना। परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ।। 32
पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् । दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ।। 33
ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना। इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका। परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ।। 34
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्। नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ।। 35
साऽहं बहूनिः दुःखानि गणयामि न ते कृते ।। 36
मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः। कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ।। 37
एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव । न मां जानासि कौन्तेय किं फलं जीवितेन मे ।। 38
द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा। अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ।। 39
कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये। विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ।। 40
आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते । शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ।। 41
योऽयं राज्ञो विराटस्य कीचको नाम भारत। सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ।। 42
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि। नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ।। 43
तेनैवमुच्यमानाया वधार्हेणारिसूदन। कालेनेव फलं पक्वं हृदयं मे विदीर्यते ।। 44
शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम्। निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ।। 45
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् ।। 46
विजानामि तवामर्षं बलं वीर्यं च पाण्डव। ततोऽहं परिदेवामि चाग्रतस्ते महाबल ।। 47
यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः। भूमौ निपतितं बिल्वं पद्भ्यमाक्रम्य पीडयेत् ।। 48
तथैव च शिरस्तस्य निपात्य धरणीतले। वामेन पुरुषव्याघ्र मर्द मादेन पाण्डव ।। 49
स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति। कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ।। 50
शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च। युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च। कीचकस्य वधं नाद्य प्रतिजानासि भारत ।। 51