वीणेव मधुरालापा स्वरं गान्धारमाश्रिता। अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् ।। 12
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा। न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति ।। 13
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि । तत्कर्मं कृतवत्यद्य कथं निद्रां निषेवसे ।। 14
सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः। संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः ।। 15
स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः। उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे ।। 16
उपवेश्य च दुर्धर्पः पाञ्चालकुलवर्धनीम्। अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ।। 17
केनार्थेन च संप्राप्ता त्वरितेव ममान्तिकम्। न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे ।। 18
प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि। आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा ।। 19
सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम्। यद्यप्यसुकरं कर्म कृतमित्यवधारय ।। 20
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु। अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ।। 21
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्। गच्छ वै शयनायैव यावदन्यो न बुध्यते ।। 22
सा लञ्जमाना भीता च अधोमुखमुखी ततः। नोवाच किंचिद्वचनं बाष्पदूषितलोचना ।। 23
अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसंमतः। प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ।। 24
अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः। जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ।। 25
यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत्। सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ।। 26
विकृष्टा हास्तिनपुरे सभायां राजसंसदि। दुःशासनेन केशान्ते परामृष्टा रजस्वला ।। 27
क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च। श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता। द्रोणेन च महाबाहो कृपेण च परंतप ।। 28
साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव। केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ।। 29
विप्रयुक्ता ततश्चाहं वने राज्याद्वनं गता। साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता । जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ।। 30
पार्थिवस्य सुता नाम कानु जीवेन मादृशी । अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो।। 31
वनवासगता चाहं सैन्धवेन दुरात्मना। परामृष्टा द्वितीयं च सोद्रुमुत्सहते तु का ।। 32
पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् । दुर्गाञ्श्वापदसंकीर्णांस्त्वयि जीवति पाण्डवे ।। 33
ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना। इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका। परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ।। 34
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्। नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ।। 35
साऽहं बहूनिः दुःखानि गणयामि न ते कृते ।। 36
मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः। कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ।। 37
एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव । न मां जानासि कौन्तेय किं फलं जीवितेन मे ।। 38
द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा। अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ।। 39
कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये। विषमालेड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलं ।। 40
आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते । शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ।। 41