मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम्। सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ।। 20
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः । विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ।। 21
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः। जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ।। 22
स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः । कीचको नष्टमर्यादो बभूव भयदो नृणाम् ।। 23
तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः । जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ।। 24
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान्। मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ।। 25
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा। पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ।। 26
अन्ये च बहवः शूरा नानाजनपदेश्वराः। कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ।। 27
तमेवंवीर्यसंपन्नं नागायुतसमं बले। विराटस्तत्र सेनायाश्चकार पतिमात्मनः ।। 28
विराटभ्रातरश्चैव दश दाशरथेः समाः। ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ।। 29
एवंविधबलो भीमः कीचकस्ते च तद्विधाः। राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ।। 30
एतत्ते कथितं सर्वं कीचकस्य पराक्रमम्। द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ।। 31
रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च। जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ।। 32
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः। क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ।। 33
क्षमावतामयं लोकः परश्चैव क्षमावताम्। एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ।। 34
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम्। नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ।। 35
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम्। क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ।। 36
अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम्। वारितो धर्मपुत्रेण वेलयेव महोदधिः ।। 37
संधार्य मनसा रोषं दिवारात्रं विनिश्वसन्। महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ।। 38
सा सूतपुत्राभिहता राजपुत्री सुदुःखिता। वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी ।। 1
जगामावासमेवाथ तदा सा द्रुपदात्मजा। कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ।। 2
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा। चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ।। 3
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम। इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत्। अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् ।। 4
प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम्। दुःखेन महता युक्ता मानसेन मनस्विनी । प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती ।। 5
सा वै महानसं प्राप्य भीमसेनं सुचिस्मिता। उपासर्पत पाञ्चाली वासितेव महागजम् ।। 6
सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी। महर्पभं यथा सुप्तमर्थिनी वननिर्झरे । संप्रसुप्तं तथा सिंहिं मृगराजवधूरिव ।। 7
अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् । सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता ।। 8
परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत्। श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे । क्षौमावदाते शयने शयानं वृषभेक्षणम् ।। 9
यथा शची देवराजं रुद्राणी शंकरं यथा। ब्रह्माणमिव सावित्री देवसेना गुहं यथा ।। 10
दिशागजसमाकारं गजं गजवधूरिव । भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा ।। 11