तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः। कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे ।। 78
अहो दुःखतरं प्राप्ता कीचकेन पदा हता। पतिव्रता महाभागा द्रौपदी योषितांवरा ।। 1
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम्। नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ।। 2
किमर्थमिह संप्राप्ता कीचकेन दुरात्मना । नाशपत्तं महाभागा कृष्णा पादेन ताडिता ।। 3
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी । केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ।। 4
नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम। कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ।। 5
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने । बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ।। 6
दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् । नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ।। 7
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः। एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ।। 8
ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव । प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ।। 9
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम्। क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ।। 10
सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः। तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ।। 11
तेषां तु सूतविषयः सूतानां नामतः कृतः। उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ।। 12
सूतानामधिपो राजा केकयो नाम विश्रुतः। राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ।। 13
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा। कीचका इति विख्याताः शतं षट् चैव भारत ।। 14
तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो। अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् ।। 15
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत्। तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ।। 16
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा। सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ।। 17
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि । सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ।। 18
उत्तरं चोत्तरां चैव विराटात्पृथिवीपते। सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ।। 19
मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम्। सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ।। 20
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः । विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ।। 21
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः। जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ।। 22
स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः । कीचको नष्टमर्यादो बभूव भयदो नृणाम् ।। 23
तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः । जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ।। 24
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान्। मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ।। 25
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा। पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ।। 26
अन्ये च बहवः शूरा नानाजनपदेश्वराः। कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ।। 27
तमेवंवीर्यसंपन्नं नागायुतसमं बले। विराटस्तत्र सेनायाश्चकार पतिमात्मनः ।। 28
विराटभ्रातरश्चैव दश दाशरथेः समाः। ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ।। 29