पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ।। 48
भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन। बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः । अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ।। 49
न क्रोधकालं नियतं पश्यन्ति पतयस्तव। न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि। तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ।। 50
यदि ते समयः कश्चित्कृतो ह्यायतलोचने। तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ।। 51
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः। क्षमावतामयं लोकः परलोकः क्षमावतांम् ।। 52
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः। कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत्।। 53
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्। व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ।। 54
इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट्। विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ।। 55
तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः। एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ।। 56
सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः। शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ।। 57
एवमुक्त्वा वरारोहा परिमृज्याननं शुभम्। केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ।। 58
पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव। प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ।। 59
विमुक्ता मृगशावाक्षी निरन्तरपयोधरा। प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ।। 60
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम्। तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः। समयं नातिवर्तन्ते वेलामिव महोदधिः ।। 61
सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम्। रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ।। 62
तामुवाच विराटस्य महिषी शाठ्यमास्थिता। किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् ।। 63
रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम्। बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम्। नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् ।। 64
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने। को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ।। 65
कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति। ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ।। 66
तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि। भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ।। 67
कीचको माऽवधीत्तत्र सुराहारीमितोगताम्। सभायां पश्यतो राज्ञो यथा वै निर्जने वने ।। 68
घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे। भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम्। यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते ।। 69
अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः। मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति ।। 70
भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै। सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति ।। 71
तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम्। एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि ।। 72
निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम्। न स संक्रुध्यते तावद्गन्धर्वः कामरूपधृत् ।। 73
नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम्। तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः। विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् ।। 74
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः। एकस्तु कुरुते पापं कालपाशवशं गतः। नीचेनात्मापराधेन कुलं तेन विनश्यति ।। 75
सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता। कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् ।। 76
अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया। न च स्नाति न चाश्नाति न पांसून्परिमार्जति। रुधिरक्लिन्नवदना बभूव मृदितेक्षणा ।। 77