सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना। सुरूपिणी सुवदना नेयं योग्या पदा वधम् ।। 38
देवदेवीव सुभगा शक्रदेवीव शोभना। अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् ।। 39
इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः ।। 40
सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता। तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् ।। 41
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत्। अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् । कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् ।। 42
गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् । राजा ह्ययं धर्मशीलो विराटः परलोकभीः । यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः ।। 43
भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः। शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ।। 44
मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव। तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ।। 45
श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः। यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् ।। 46
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम्। या तु भर्तारि शुश्रूषा सा स्वर्गायाभिजायते ।। 47
पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ।। 48
भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन। बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः । अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ।। 49
न क्रोधकालं नियतं पश्यन्ति पतयस्तव। न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि। तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ।। 50
यदि ते समयः कश्चित्कृतो ह्यायतलोचने। तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ।। 51
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः। क्षमावतामयं लोकः परलोकः क्षमावतांम् ।। 52
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः। कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत्।। 53
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्। व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ।। 54
इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट्। विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ।। 55
तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः। एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ।। 56
सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः। शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ।। 57
एवमुक्त्वा वरारोहा परिमृज्याननं शुभम्। केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ।। 58
पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव। प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ।। 59
विमुक्ता मृगशावाक्षी निरन्तरपयोधरा। प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ।। 60
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम्। तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः। समयं नातिवर्तन्ते वेलामिव महोदधिः ।। 61
सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम्। रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ।। 62
तामुवाच विराटस्य महिषी शाठ्यमास्थिता। किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् ।। 63
रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम्। बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम्। नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् ।। 64
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने। को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ।। 65
कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति। ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ।। 66
तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि। भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ।। 67