पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च
हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम्। ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्। उवाच वचनं काले देवयान्यथ भारत
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो। अगोपाश्चागता गावः कचस्तात न दृश्यते
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयमिति सत्यं ब्रवीमि ते
ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत्
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः। आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम्
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः। गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्। बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः। दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं
आहूतो विद्यया भद्रे भार्गवेण महात्मना। त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया। स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्। पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत्। विप्रेण पुनराहूतो विद्यया गुरुदेहजः। पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा
अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः। सा सायन्तनवेलायामगोपा गाः समागताः
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत्।' पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते
श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम्। ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः। विद्यया जीवितोऽप्येवं हन्यते करवाम किम्
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते। यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च
सुरद्विषश्चैव जगच्च सर्व- मुपस्थाने सन्नमन्ति प्रभावात्। अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो वध्यते चैव भूयः
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः। ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम्
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः। कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः
कं ब्रह्महत्या न दहेदपीन्द्रम्
संचोदितो देवयान्या महर्षिः पुनराह्वयत्। संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम्
कचोऽपि राजन्स महानुभावो विद्याबलाल्लब्धमतिर्महात्मा।' गुरोर्हि भीतो विद्यया चोपहूतः। शनैर्वाक्यं जठरे व्याजहार
प्रसीद भगवन्मह्यं कचोऽहमभिवादये। यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान्