नोपालभे त्वां नृपते विराटं नृपसंसदि। नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके ।। 8
सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम्। विराटनृपते पश्य मामनाथामनागसम् ।। 9
न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते ।। 10
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्। स राजा न भवेल्लोके राजशब्दस्य भाजनम् ।। 11
दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान्। अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा । दुष्टचोराभिभूतांश्च पालयेदवनीपतिः ।। 12
अनाथानां च नाथः स्यादपितॄणां पिता नृपः । माता भवेदमातॄणामगुरूणां गुरुर्भवेत्। अगतीनां गती राजा नृणां राजा परायणम् ।। 13
विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः। स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव ।। 14
त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम्। अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहतां ।। 15
परोक्षं नाभिजानामि विग्रहं युवयोरहम्। अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम ।। 16
येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन्। तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ।। 17
ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः। येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम्। तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ।। 18
तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः। महेष्वासा रणे शूरा गर्विता मानतत्पराः। तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ।। 19
सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः। तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ।। 20
येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे। तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ।। 21
येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः। तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ।। 22
तवाग्रतो विशेषेण प्रजानां च हितैषिणः। पश्यतो निहता राजंस्तेनेह जगतीपते ।। 23
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्। चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः ।। 24
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्। मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः ।। 25
क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम्। न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना ।। 26
मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे। मां मर्षंयति यः पश्यन्वध्यमानामनागसम् ।। 27
धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति। न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः ।। 28
यत्र धर्मो ह्यधर्मेम सत्यं यत्रानृतेन च। हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।। 29
तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम्। ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन्। साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् ।। 30
केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम्। केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः ।। 31
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा। परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ।। 32
यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम्। गतिर्हंसं स्मितं कुन्दं सौषा नार्हति पद्वधम् ।। 33
द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः। स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् ।। 34
पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा। यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् ।। 35
आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः । समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् ।। 36
अच्छिद्रहस्तपादा च अच्छिद्रदशना च या। कन्या कमलपत्राक्षी कथमर्हति पद्वधम् ।। 37