कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा । सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ।। 42
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः। आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम्। दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ।। 43
प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम्। कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ।। 44
स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम्। प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ।। 45
विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना। राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ।। 46
राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ।। 47
अहं त्वनपराध्यन्ती कीचकेन दुरात्मना । पश्यतस्ते महाराज हता पादेन दासिवात् ।। 48
त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले । अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ।। 49
रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर । मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ।। 50
यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः। अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ।। 51
मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम्। त्वं किलैवंविधो जातः कुले धर्मपरायणे ।। 52
अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप। त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ।। 53
अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः। प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ।। 54
अकार्याणामनारम्भात्कार्याणामनुपालनात्। प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ।। 55
कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः। प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ।। 56
नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात्। प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ।। 57
अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते। द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ।। 58
धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा। क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ।। 59
प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम्। एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ।। 60
अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम्। कल्याणकारी कल्याणं पापकारी च पापकम् ।। 61
तेन गच्छति संसर्गं स्वर्गाय नरकाय वा। सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः । पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ।। 62
एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम्। शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ।। 63
यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना। तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ।। 64
एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः। अशक्तः कीचकं तत्र शासितुं बलदर्पितम् । विराटराजः मूतं तु सान्त्वेनैव न्यवारयत् ।। 1
कीचकं मत्स्यराजेन कृतागसमनिन्दिता। नापराधानुरूपेण दण्डेन प्रतिपादितम् ।। 2
पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा। धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे । पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् ।। 3
संप्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः। राजानुवर्तनपरान्कीचकं च कृतागसम्। विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना ।। 4
न राजन्राजवत्किंचित्समाचरसि कीचके। दस्यूनामिव ते धर्मो न सत्सु परिवर्तते।। 5
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन। सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते।। 6
न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च। न राजा विनयं ब्रूते अमात्याश्च न जानते ।। 7