वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः। आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ।। 32
तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः। चकार भीमसेनस्य रोषाविष्टस्य धीमतः ।। 33
प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ।। 34
सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः। नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च।। 35
यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः। समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति।। 36
यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत्। न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ।। 37
न क्रोधकालसमयः सूद मा चापलं कृथाः। अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ।। 38
अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट्। प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ।। 39
भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः। सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् । इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ।। 40
भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम्। द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ।। 41
कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा । सभाद्वारमुपगम्य रुदन्ती वाक्यमब्रवीत् ।। 42
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः। आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम्। दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ।। 43
प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम्। कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ।। 44
स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम्। प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ।। 45
विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना। राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ।। 46
राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ।। 47
अहं त्वनपराध्यन्ती कीचकेन दुरात्मना । पश्यतस्ते महाराज हता पादेन दासिवात् ।। 48
त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले । अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ।। 49
रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर । मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ।। 50
यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः। अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ।। 51
मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम्। त्वं किलैवंविधो जातः कुले धर्मपरायणे ।। 52
अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप। त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ।। 53
अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः। प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ।। 54
अकार्याणामनारम्भात्कार्याणामनुपालनात्। प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ।। 55
कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः। प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ।। 56
नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात्। प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ।। 57
अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते। द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ।। 58
धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा। क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ।। 59
प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम्। एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ।। 60
अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम्। कल्याणकारी कल्याणं पापकारी च पापकम् ।। 61