स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम्। अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ।। 12
भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम्। उपसर्प वरारोहे मेरुमर्कप्रभा यथा ।। 13
स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम्। अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः ।। 14
कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी। अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ।। 15
नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी। गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ।। 16
यत्र गच्छन्ति बहवः परदाराभिमर्शकाः। नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ।। 17
अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् । तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ।। 18
पिपासिता च कैकेयी तूर्णं मामादिशत्ततः। दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ।। 19
अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम्। किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ।। 20
इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत्। सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् । सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ।। 21
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्। पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ।। 22
सभायां पश्यतो राज्ञो विराटस्य महात्मनः। ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यतां ।। 23
तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ।। 24
ततो दिवाकरेणाशु राक्षसः संनियोजितः। स कीचकमपोवाह वातवेगेन भारत ।। 25
स पपात तदा भूमौ रक्षोबलसमीरितः । विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ।। 26
तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः। न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन्। किमियं वध्यते बाला कृपणा चाप्यबान्धवा ।। 27
तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा । अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधं ।। 28
तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत। धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी । सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ।। 29
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः। दन्तैर्दन्तांस्तदा रोपान्निष्पिपेष महामनाः ।। 30
भूयः संचरितः क्रुद्धः सहसोत्थाय चासनात्। निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत।। 31
वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः। आकारेणैव भीमं स प्रत्यपेधद्युधिष्ठिरः ।। 32
तस्य राजा शनैः संज्ञां कुन्तीपुत्रो युधिष्ठिरः। चकार भीमसेनस्य रोषाविष्टस्य धीमतः ।। 33
प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ।। 34
सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः। नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च।। 35
यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः। समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति।। 36
यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत्। न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ।। 37
न क्रोधकालसमयः सूद मा चापलं कृथाः। अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ।। 38
अथाङ्गुष्ठेनावमृद्गादङ्गुष्ठं तत्र धर्मराट्। प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ।। 39
भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः। सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् । इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ।। 40
भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम्। द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ।। 41