स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः। असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः। नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान्
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ। अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान्
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः। अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्। आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्
व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत। आराधयन्नुपाध्यायं देवयानीं च भारत
नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः। गायन्नृत्यन्वादयंश्च देवयानीमतोषयत्
स शीलयन्देवयानीं कन्यां संप्राप्तयौवनाम्। पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत
देवयान्यपि तं विप्रं नियमव्रतधारिणम्। गायन्ती च ललन्ती च रहः पर्यचरत्तथा
गायन्तं चैव शुल्कं च दातारं प्रियवादिनम्। नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च
हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम्। ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्। उवाच वचनं काले देवयान्यथ भारत
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो। अगोपाश्चागता गावः कचस्तात न दृश्यते
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयमिति सत्यं ब्रवीमि ते
ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत्
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः। आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम्
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः। गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्। बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः। दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं
आहूतो विद्यया भद्रे भार्गवेण महात्मना। त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया। स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्। पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत्। विप्रेण पुनराहूतो विद्यया गुरुदेहजः। पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा
अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः। सा सायन्तनवेलायामगोपा गाः समागताः
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत्।' पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते