कीचकस्यालयं देवि न यामि भयकम्पिता। यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ।। 48
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी । तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ।। 49
कीचकं चैव गच्छ त्वं बलात्कारे चोदिता। नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ।। 50
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि। शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ।। 51
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे। उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ।। 52
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम्। या सुजाता सुगन्धा च तामानय सुरामिति ।। 53
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा। दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ।। 54
यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम्। तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ।। 55
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी। तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ।। 56
अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम्। मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ।। 1
रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च। सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ।। 2
इत्येवं मृगशवाक्षी सुश्रोणी धर्मचारिणी । उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ।। 3
तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्। अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ।। 4
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ।। 5
प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः । विलम्बमाना विवशा कीचकस्य निवेशनम् ।। 6
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम्। उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ।। 7
श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः। स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ।। 8
स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे। कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ।। 9
प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान्। सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ।। 10
वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम्। प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि। प्रीत्या मे कुरु मद्माक्षि प्रसादं प्रियदर्शने ।। 11
स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम्। अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ।। 12
भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम्। उपसर्प वरारोहे मेरुमर्कप्रभा यथा ।। 13
स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम्। अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसंमतः ।। 14
कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी। अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ।। 15
नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी। गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ।। 16
यत्र गच्छन्ति बहवः परदाराभिमर्शकाः। नराः संभिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ।। 17
अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् । तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ।। 18
पिपासिता च कैकेयी तूर्णं मामादिशत्ततः। दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ।। 19
अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम्। किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ।। 20
इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत्। सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् । सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ।। 21