गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम्। किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ।। 28
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः । तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ।। 29
ततः संप्रेषितामेनां विजने निरवग्रहाम्। सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ।। 30
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ।। 31
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः। त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ।। 32
आगम्य च गृहं रम्यं सुरामन्नं चकार ह। अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ।। 33
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा। कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ।। 34
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा । नावबुध्यत मूढात्मा मरणं समुपस्थितम् ।। 35
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते। कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ।। 36
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः। सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ।। 37
केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम्। अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम्। समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ।। 38
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम्। एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ।। 39
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः । स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ।। 40
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम्। सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् ।। 41
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् । सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ।। 42
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा। अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः ।। 43
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते । न गच्छेयमहं तस्य राजपुत्रि निवेशनम् । त्वमेव भद्रे जानासि यथा स निरपत्रपः ।। 44
समयश्च कृतो भद्रे यथा प्रथमसंगमे। तथा निवसमानायां यथाऽहं नान्यचारिणी ।। 45
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः । स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम्। कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ।। 46
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः। अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ।। 47
कीचकस्यालयं देवि न यामि भयकम्पिता। यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ।। 48
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी । तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ।। 49
कीचकं चैव गच्छ त्वं बलात्कारे चोदिता। नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ।। 50
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि। शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ।। 51
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे। उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ।। 52
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम्। या सुजाता सुगन्धा च तामानय सुरामिति ।। 53
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा। दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ।। 54
यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम्। तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ।। 55
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी। तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ।। 56
अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम्। मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ।। 1