शरणागतेयं सुश्रोणी मया दत्ताभया च सा। शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ।। 8
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा। गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ।। 9
एवमेषा ममाचष्टे तथा प्रथमसंगमे। तथैव गजनासोरूः सत्यमाह ममान्तिके। ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ।। 10
राजा चैव समीक्ष्यैनां संमोहं गतवानिह । मया च सत्यवचनैरनुनीतो महीपतिः ।। 11
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत। भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम्। मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ।। 12
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः। दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ।। 13
सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम्। तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ।। 14
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम्। बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ।। 15
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव। न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ।। 16
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत्। गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा । अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ।। 17
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् । पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ।। 18
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम्। योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ।। 19
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम्। वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता। सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ।। 20
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता। अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ।। 21
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा। पातालेषु पतत्येष विलपन्बडवामुखे ।। 22
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे। किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ।। 23
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे। ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः । अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ।। 24
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः । एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ।। 25
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः। अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ।। 26
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात्। विदितार्था करिष्यामि तुष्टो भव कुलक्षये ।। 27
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम्। किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ।। 28
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः । तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ।। 29
ततः संप्रेषितामेनां विजने निरवग्रहाम्। सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ।। 30
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ।। 31
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः। त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ।। 32
आगम्य च गृहं रम्यं सुरामन्नं चकार ह। अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ।। 33
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा। कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ।। 34
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा । नावबुध्यत मूढात्मा मरणं समुपस्थितम् ।। 35
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते। कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ।। 36
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः। सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ।। 37