अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्र तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यस
तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भ न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा ।। 2
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः। प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ।। 1
सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् । अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ।। 2
स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ । संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः ।। 3
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः । अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ।। 4
यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया । तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ।। 5
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते । चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ।। 6
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम्। भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ।। 7
शरणागतेयं सुश्रोणी मया दत्ताभया च सा। शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ।। 8
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा। गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ।। 9
एवमेषा ममाचष्टे तथा प्रथमसंगमे। तथैव गजनासोरूः सत्यमाह ममान्तिके। ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ।। 10
राजा चैव समीक्ष्यैनां संमोहं गतवानिह । मया च सत्यवचनैरनुनीतो महीपतिः ।। 11
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत। भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम्। मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ।। 12
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः। दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ।। 13
सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम्। तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ।। 14
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम्। बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ।। 15
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव। न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ।। 16
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत्। गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा । अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ।। 17
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् । पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ।। 18
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम्। योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ।। 19
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम्। वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता। सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ।। 20
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता। अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ।। 21
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा। पातालेषु पतत्येष विलपन्बडवामुखे ।। 22
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे। किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ।। 23
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे। ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः । अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ।। 24
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः । एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ।। 25
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः। अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ।। 26
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात्। विदितार्था करिष्यामि तुष्टो भव कुलक्षये ।। 27