वलीविभङ्गचतुरं स्तनभारविनामितम्। कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ।। 22
दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम्। कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ।। 23
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः । त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् ।। 24
आत्मप्रदानवर्षेण संगमाम्भोधरेण च। शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ।। 25
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः। त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने । मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ।। 26
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः। अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम। आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि ।। 27
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता। कामं प्रकामं सेव त्वं मया सह विलासिनि ।। 28
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता। प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ।। 29
स्वादून्यमृतकल्पानि पेयानि विविधानि च। पिबमाना मनोज्ञानि रममाणा यथासुखम् ।। 30
भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम्। पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ।। 31
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि । अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ।। 32
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि । अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ।। 33
एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना । द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ।। 1
अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे। निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ।। 2
परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम्। दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ।। 3
परदारे न ते बुद्धिर्जातु कार्या कथंचन । विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ।। 4
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः । अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ।। 5
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः। जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ।। 6
दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् । प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ।। 7
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने । मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ।। 8
प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् । नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ।। 9
अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे । प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ।। 10
पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह । रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ।। 11
सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह। भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ।। 12
मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने। भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ।। 13
एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः। कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ।। 14
मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम्। जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ।। 15
न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम। ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ।। 16
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ।। 17
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम्। तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ।। 18