का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने। प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ।। 12
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम्। कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ।। 13
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे। वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ।। 14
एवंरूपा मया नारी काचिदन्या महीतले। न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ।। 15
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे। ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ।। 16
अतीव रूपिणी किं त्वमनङ्गविहारिणी। अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ।। 17
अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम्। दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ।। 18
निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम्। कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ।। 19
हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ । सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ।। 20
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ। कामप्रतोदाविव मां तुदतश्चारुहासिनि ।। 21
वलीविभङ्गचतुरं स्तनभारविनामितम्। कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ।। 22
दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम्। कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ।। 23
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः । त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् ।। 24
आत्मप्रदानवर्षेण संगमाम्भोधरेण च। शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ।। 25
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः। त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने । मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ।। 26
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः। अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम। आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि ।। 27
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता। कामं प्रकामं सेव त्वं मया सह विलासिनि ।। 28
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता। प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ।। 29
स्वादून्यमृतकल्पानि पेयानि विविधानि च। पिबमाना मनोज्ञानि रममाणा यथासुखम् ।। 30
भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम्। पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ।। 31
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि । अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ।। 32
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि । अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ।। 33
एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना । द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ।। 1
अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे। निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ।। 2
परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम्। दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ।। 3
परदारे न ते बुद्धिर्जातु कार्या कथंचन । विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ।। 4
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः । अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ।। 5
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः। जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ।। 6
दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् । प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ।। 7
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने । मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ।। 8