बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः। धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः
अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः। महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः
एते चान्ये च राजानः शतशोऽथ सहस्रशः। श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः। राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च। माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम्
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः। सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना। लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः। येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत
निग्रहानुग्रहौ चापि विदितौ ते नराधिप। नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे
भवितव्यं तथा तच्च नानुशोचितुमर्हसि। दैवं पुरुषकारेण को निवर्तितुमर्हति
विधातृविहितं मार्गं न कश्चिदतिवर्तते। कालमूलमिदं सर्वं भावाभावौ सुखासुखे
कालः सृजति भूतानि कालः संहरते प्रजाः। संहरन्तं प्रजाः कालं कालः शमयते पुनः
कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान्। कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः। कालः सर्वेषु भूतेषु चरत्यविधतः समः
अतीतानागता भावा ये च वर्तन्ति सांप्रतम्। तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्। आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत्। दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः। अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः। भारताध्ययनं पुण्यमपि पादमधीयतः। श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः। कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः। स हि सत्यमृतं चैव पवित्रं पुण्यमेव च
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्। यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः
असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते। सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः
अध्यात्मं श्रूयतें यत्र पञ्चभूतगुणात्मकम्। अव्यक्तादि परं यच्च स एव परिगीयते
यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः। प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः। आसेवन्निममध्यायं नरः पापात्प्रमुच्यते
अनुक्रमणिकाध्यायं भारतस्येममादितः। आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति
उभे सन्ध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्। अनुक्रमण्या यावत्स्यादह्नारात्र्या च संचितम्
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च। नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा। ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्