एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् । विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ।। 55
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते । ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ।। 56
विराटेन प्रदत्तानि चित्राणि विविधानि च। स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ।। 57
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः। योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ।। 58
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः। विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ।। 59
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः। तोपयामास राजानं नकुलो नृपसत्तमम्। तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ।। 60
विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः। धनं ददौ बहुविधं विराटः पुरुषर्षभः ।। 61
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् । नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ।। 62
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः । कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ।। 63
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा। महारथेषु च्छन्नेषु मासा दश समाययुः ।। 1
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशांपते । आवसत्परिचारार्हा सुदुःखं जनमेजय ।। 2
तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने। ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः ।। 3
तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः। सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ।। 4
तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव । कीचकः कामयामास कामबाणप्रपीडितः ।। 5
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै। प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ।। 6
नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा। रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ।। 7
का देवरूपा हृदयंगमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने। चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम् ।। 8
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम्। अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ।। 9
प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम्। मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ।। 10
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम्। उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ।। 11
का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने। प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ।। 12
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम्। कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ।। 13
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे। वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ।। 14
एवंरूपा मया नारी काचिदन्या महीतले। न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ।। 15
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे। ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ।। 16
अतीव रूपिणी किं त्वमनङ्गविहारिणी। अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ।। 17
अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम्। दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ।। 18
निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम्। कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ।। 19
हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ । सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ।। 20
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ। कामप्रतोदाविव मां तुदतश्चारुहासिनि ।। 21