इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते । तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ।। 25
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम्। ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ।। 26
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे। अनेन सह मल्लेन योद्धुं शक्नोति भूपते ।। 27
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे। सोयं मल्लो वसत्येप राजंस्तव महानसे ।। 28
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः। सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ।। 29
भीमसेनो विराटेन आहूतश्चोदितस्तथा। योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ।। 30
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात्। अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ।। 31
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते। महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ।। 32
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले। योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः। मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ।। 33
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ।। 34
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम्। न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ।। 35
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्। प्रविवेश महारङ्गं विराटमभिहर्षयन् ।। 36
बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् । ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ।। 37
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् । कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ।। 38
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ । मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ।। 39
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु। वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ।। 40
उभौ परमसंहृष्टौ बलेनातिबलावुभौ । अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ।। 41
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः। सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ।। 42
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः। तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।। 43
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ।। 44
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा। बलप्राणेन शूराणां समाजोत्सवसन्निधौ ।। 45
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः। बलिनोः संयुगे राजन्वृत्रवासवयोरिव ।। 46
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः। आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ।। 47
ततः शब्देन महता भर्त्सयन्तौ परस्परम्। व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जेतामायसैः परिघैरिव ।। 48
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान्। पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ।। 49
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा। निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ।। 50
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् । ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ।। 51
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् । प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः।। 52
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते । विराटः परमं हर्षमगच्छद्वान्धवैः सह ।। 53
प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः। वललाय महारङ्गे यथा वैश्रवणस्तथा ।। 54