अज्ञातं च विराटस्य विजित्य वसु धर्मराट्। भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ।। 5
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च । अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ।। 6
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः । विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ।। 7
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्। तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ।। 8
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः। दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ।। 9
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी । यथा पुनरविज्ञाता तथा चरति भामिनी ।। 10
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः। विराटनगरे चेरुः पुनर्गर्भधृता इव ।। 11
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा । प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ।। 12
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः। आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ।। 13
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ।। 14
महाकाया महावीर्याः कालकेया इवासुराः। वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ।। 15
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः। असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ।। 16
तेषामेको महानासीत्सर्वमल्लानथाह्वयत्। व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ।। 17
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः । अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ।। 18
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः। गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ।। 19
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः । विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ।। 20
मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते। मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ।। 21
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले । सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ।। 22
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् । विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ।। 23
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ।। 24
इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते । तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ।। 25
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम्। ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ।। 26
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे। अनेन सह मल्लेन योद्धुं शक्नोति भूपते ।। 27
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे। सोयं मल्लो वसत्येप राजंस्तव महानसे ।। 28
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः। सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ।। 29
भीमसेनो विराटेन आहूतश्चोदितस्तथा। योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ।। 30
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात्। अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ।। 31
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते। महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ।। 32
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले। योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः। मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ।। 33
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ।। 34