नाहं शक्या विराटेन यद्वा चान्येन केनचित्। देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ।। 69
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः । पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ।। 70
यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा। स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ।। 71
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि। सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका । दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ।। 72
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः। तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ।। 73
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा । नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ।। 74
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्। प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ।। 75
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः। तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ।। 76
न चाप्यहं चालयितुं शक्या केनचिदङ्गने। दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः । एवं निवसमानायां मयि मा ते भयं हि भूत् ।। 77
एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत्। वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ।। 78
कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि । प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ।। 79
एवमाचारसंपन्ना एवं देवपरायणा। रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ।। 80
देवता इव कल्याणि पूजिता वरवर्णिनी। वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते। सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ।। 81
सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी। निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ।। 82
याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते। अवसत्परिचारार्हा सुदुःखं जनमेजय ।। 83
एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना। अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः ।। 84
एवं विराटनगरे वसन्तः सत्यविक्रमाः। अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ।। 1
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः । आराधयन्तो राजानां यदकुर्वत तच्छृणु ।। 2
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः । तथैव च विराटस्य सपुत्रस्य विशांपते ।। 3
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः। अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ।। 4
अज्ञातं च विराटस्य विजित्य वसु धर्मराट्। भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ।। 5
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च । अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ।। 6
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः । विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ।। 7
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्। तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ।। 8
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः। दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ।। 9
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी । यथा पुनरविज्ञाता तथा चरति भामिनी ।। 10
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः। विराटनगरे चेरुः पुनर्गर्भधृता इव ।। 11
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा । प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ।। 12
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः। आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ।। 13
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ।। 14