भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी । विचरामि महीं दुर्गां यत्र सायंनिवेशना ।। 49
वीरपत्नी यदा देवी चरमाणेषु भर्तृषु। साऽहं विवत्सा विधिना गन्धमादनपर्वतात्। शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ।। 50
माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः। त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ।। 51
गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ । तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ।। 52
एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता। साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ।। 53
न भरेयमहं भद्रे संशयो मम विद्यते। राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ।। 54
साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि। एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ।। 55
स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि। त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ।। 56
वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि। विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ।। 57
बिभर्षि परमं रूपमतिमानुषमद्भुतम्। तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः । तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ।। 58
राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः। मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ।। 59
यं हि त्वमनवद्याङ्गी नरमायतलोचने। सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ।। 60
सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम्। ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ।। 61
न शोको न च सन्तापो न क्रोधो नानृतं वदे। यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता ।। 62
न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत्। यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ।। 63
पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः। बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ।। 64
यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः । अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ।। 65
अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति। राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ।। 66
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः। तथाविधमहं मन्ये तव सुभ्रु समागमम् ।। 67
अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन। भर्तृशीलभयाद्भद्रे तव वासं न रोचये ।। 68
नाहं शक्या विराटेन यद्वा चान्येन केनचित्। देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ।। 69
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः । पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ।। 70
यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा। स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ।। 71
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि। सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका । दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ।। 72
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः। तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ।। 73
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा । नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ।। 74
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्। प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ।। 75
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः। तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ।। 76
न चाप्यहं चालयितुं शक्या केनचिदङ्गने। दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः । एवं निवसमानायां मयि मा ते भयं हि भूत् ।। 77
एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत्। वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ।। 78