सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम्। श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ।। 19
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः । परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ।। 20
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम्। गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम्। अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ।। 21
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने। ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ।। 22
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम्। लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ।। 23
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव। पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ।। 24
सुलभामिव नागीनां मृगीणामिव किन्नरीम्। गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ।। 25
तामचिन्त्यतमां लोके इलामिव यशस्विनीम् । सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ।। 26
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् । सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ।। 27
का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता। कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ।। 28
गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता। स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ।। 29
शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा। अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ।। 30
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना । दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ।। 31
अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी । अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ।। 32
तेनतेनैव संपन्ना काश्मीरीव तुरंगमा। इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ।। 33
देवि देवेषु विख्याता ब्रूहि का त्वमिहागता। तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ।। 34
त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम्। न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ।। 35
प्रवालपुष्पस्तबकैराचिता वनदेवताः। त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा ।। 36
अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः। सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ।। 37
न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी। दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ।। 38
नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी। सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ।। 39
पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे। केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ।। 40
तत्र द्वादशवर्षाणि वन्यमूलफलाशना। चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ।। 41
जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन्। मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ।। 42
सिन्धुवारकजातीनां रचयाम्यवतंसकान्। पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् । ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ।। 43
आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम्। कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ।। 44
तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता। मालिनी चेति मे नाम स्वयं देवी चकार ह। कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ।। 45
न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने। व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ।। 46
योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा। न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ।। 47
साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च। शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ।। 48