एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः। अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ।। 26
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः । अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ।। 27
ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता। वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा । जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ।। 1
वासश्च परिधायैकं कृष्णा सुमलिनं महत्। कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ।। 2
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता। तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ।। 3
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि। सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता। कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ।। 4
तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा। न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ।। 5
विराटस्य तु कैकेयी भार्या परमसंमता। आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ।। 6
सा समीक्ष्य तथारूपामनाथामेकवाससम्। स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ।। 7
विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा। अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ।। 8
अपनीय ततः सर्वा आनयध्वमिहैव ताम्। यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा। तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ।। 9
तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः। आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ।। 10
भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले। त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि। आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ।। 11
तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा। ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ।। 12
राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता। सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ।। 13
कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा। कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च। जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ।। 14
सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा। ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ।। 15
अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता। ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ।। 16
रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव । नानावर्णविचित्रां च सर्वाभरणभूषिताम् ।। 17
सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम्। बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ।। 18
सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम्। श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ।। 19
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः । परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ।। 20
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम्। गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम्। अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ।। 21
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने। ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ।। 22
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम्। लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ।। 23
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव। पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ।। 24
सुलभामिव नागीनां मृगीणामिव किन्नरीम्। गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ।। 25
तामचिन्त्यतमां लोके इलामिव यशस्विनीम् । सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ।। 26
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् । सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ।। 27
का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता। कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ।। 28