निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत्। उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ।। 6
धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा। नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् ।। 7
प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान्। बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः ।। 8
अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ।। 9
विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च। उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम् ।। 10
बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता । स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ ।। 11
वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् । वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ।। 12
न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो ।। 13
त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि। आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् ।। 14
कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम्। कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ।। 15
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः। तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ।। 16
अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे। तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ।। 17
भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित्। न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ।। 18
गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः। आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ।। 19
अनेन गणिता गावो दुर्विज्ञेया महत्तराः। बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ।। 20
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित्। तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ।। 21
ऋषभानपि जानामि राजन्पूजितलक्षणान्। येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ।। 22
मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत। नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ।। 23
अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम्। त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ।। 24
शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम्। ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति ।। 25
एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः। अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ।। 26
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः । अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ।। 27
ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता। वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा । जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ।। 1
वासश्च परिधायैकं कृष्णा सुमलिनं महत्। कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ।। 2
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता। तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ।। 3
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि। सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता। कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ।। 4
तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा। न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ।। 5
विराटस्य तु कैकेयी भार्या परमसंमता। आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ।। 6
सा समीक्ष्य तथारूपामनाथामेकवाससम्। स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ।। 7
विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा। अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ।। 8