पौरवेणाथ वयसा राजा यौवनमास्थितः। यायातेनापि वयसा राज्यं पूरुरकारयत्
ततो वर्षसहस्राणि ययातिरपराजितः। स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च। विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः। अवेत्य मनसा राजन्निमां गाथां तदा जगौ
न जातु कामः कामानामुपभोगेन शाम्यति। इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित्। कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप। समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात्
ततो वर्षसहस्रान्ते ययातिरपराजितः।' दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च। अतृप्त एव कामानां पूरुं पुत्रमुवाच ह
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः। पौरवो वंश इति ते ख्यातिं लोके गमिष्यति
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च। ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः
कालेन महता पश्चात्कालधर्ममुपेयिवान्। कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान्
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः। कथं स शुक्रतनयां लेभे परमदुर्लभाम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक्
ययातिरासीन्नृपतिर्देवराजसमद्युतिः। तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा
तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय। देवयान्याश्च संयोगं ययातेर्नाहुषस्य च
सुराणामसुराणां च समजायत वै मिथः। ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम्। तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान्
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात्। ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान्
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि। न तान्सञ्जीवयामास बृहस्पतिरुदारधीः
न हि वेद स तां विद्यां यां काव्योवेत्ति वीर्यवान्। सञ्जीविनीं ततो देवा विषादमगमन्परम्
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा। ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्। या सा विद्या निवसति ब्राह्मणेऽमिततेजसि
शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि। वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः
रक्षते दानवांस्तत्र न स रक्षत्यदानवान्। तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्
देवयानीं च दयितां सुतां तस्य महात्मनः। त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च। देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः। तदाऽभिपूजितो देवैः समीपे वृषपर्वणः