तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च। ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ।। 16
ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो। न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि ।। 17
नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम। तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ।। 18
ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः । ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ।। 19
उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम्। सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ।। 20
प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता। न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः ।। 21
संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै। अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ।। 22
स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः । सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः ।। 23
तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान्। तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः ।। 24
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति। तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ।। 1
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट्। दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ।। 2
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ।। 3
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः। प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ।। 4
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात्। ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ।। 5
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः। तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ।। 6
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि। कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ।। 7
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः। तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ।। 8
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः । दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ।। 9
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः। जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ।। 10
मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता। सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ।। 11
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात्। शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ।। 12
यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै। ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ।। 13
इदं तवेष्टं विहितं सुरोपम ...हि यत्ते प्रसमीक्षितं वरम्। ...ऽनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ।। 14
युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् । कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ।। 15
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः। न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ।। 16
अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी। तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ।। 1
तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत। प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम्। युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ।। 2
यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः। मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् ।। 3
स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम्। मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः ।। 4
न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम्। पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ।। 5