गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः। पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः ।। 6
किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयंभूः। उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः ।। 7
सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः। स तत्र राजनममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी ।। 8
वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे। स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं मम ।। 9
क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम। करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः ।। 10
इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम्। तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः ।। 11
नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह । तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो ।। 12
विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव। धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ ।। 13
प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः। पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते ।। 14
त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां कांचन लक्षयामि ते। प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम् ।। 15
तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च। ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ।। 16
ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो। न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि ।। 17
नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम। तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ।। 18
ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः । ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ।। 19
उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम्। सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ।। 20
प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता। न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः ।। 21
संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै। अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ।। 22
स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः । सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः ।। 23
तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान्। तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः ।। 24
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति। तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ।। 1
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट्। दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ।। 2
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ।। 3
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः। प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ।। 4
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात्। ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ।। 5
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः। तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ।। 6
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि। कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ।। 7
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः। तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ।। 8
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः । दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ।। 9
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः। जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ।। 10
मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता। सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ।। 11